॥देवीमयी॥ तव च का किल न स्तुतिरम्बिके! सकलशब्दमयी किल ते तनुः। निखिलमूर्तिषु मे भवदन्वयो मनसिजासु बहिःप्रसरासु च॥ इति विचिन्त्य शिवे! शमिताशिवे! जगति जातमयत्‍‌नवशादिदम्। स्तुतिजपार्चनचिन्तनवर्जिता न खलु काचन कालकलास्ति मे॥